|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.33. अध्यायः 033
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति कृतघ्नस्य प्रायश्चित्तविषये दृष्टान्ततया वत्सनाभमुनिचरित्रकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`युधिष्ठिर उवाच।
प्रायश्चित्तं कृतघ्नानां प्रतिब्रूहि पितामह।
मातॄः पितॄन्गुरुंश्चैव येऽवमन्यन्ति मोहिताः॥ 13-33-1(82137)
ये चाप्यन्ते परे तात कृतघ्ना निरपत्रपाः।
तेषां गतिं महाबाहो श्रोतुमिच्छामि तत्वतः॥ 13-33-2(82138)
भीष्म उवाच। 13-33-3x(6828)
कृतघ्नानां गतिस्तात नरके शाश्वतीः समाः।
मातापितृगुरूणां च ये न तिष्ठन्ति शासने।
क्रिमिकीटपिपीलेषु जायन्ते स्थावरेषु च॥ 13-33-3(82139)
दुर्लभो हि पुनस्तेषां मानुष्ये पुनरुद्भवः।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्॥ 13-33-4(82140)
वत्सनाभो महाप्राज्ञो महर्षिः संशितव्रतः।
वल्मीकभूतो ब्रह्मर्षिस्तप्यते सुमहत्तपः॥ 13-33-5(82141)
तस्मिंश्च तप्यति तपो वासवो भरतर्षभ।
ववर्ष समुहद्वर्षं सविद्युत्स्तनयित्नुमान्॥ 13-33-6(82142)
तत्र सप्ताहवर्षं तु मुमुचे पाकशासनः।
निमीलिताक्षस्तद्वर्षं प्रत्यगृह्यत वै द्विजः॥ 13-33-7(82143)
तस्मिन्पतति वर्षे तु शीतवातसमन्विते।
विशीर्णध्वस्तशिखरो वल्मीकोऽशनिताडितः॥ 13-33-8(82144)
ताड्यमाने ततस्तस्मिन्वत्सनाभे महात्मनि।
कारुण्यात्तस्य धर्मः स्वमानृशंस्यमथाकरोत्॥ 13-33-9(82145)
चिन्तयानस्य ब्रह्मर्षि तपन्तमतिधार्मिकम्।
अनुरूपा मतिः क्षिप्रमुपजाता स्वभावजा॥ 13-33-10(82146)
स्वं रूपं माहिषं कृत्वा ********* मनोहरम्।
रक्षार्थं वत्सनामस्य चतुष्पादुपरिस्थितः॥ 13-33-11(82147)
यदा त्वपगतं वर्षं वृष्टिवातसमन्वितम्।
ततो महिषरुपेण धर्मो धर्मभृतांवर।
शनैर्वल्मीकमुत्सृज्य प्राद्रवद्भरतर्षभ॥ 13-33-12(82148)
स्थितेऽस्मिन्वृष्टिसम्पाते वीक्षते स्म महातपाः।
दिशश्च विपुलास्तत्र गिरीणां शिखराणि च॥ 13-33-13(82149)
दृष्ट्वा च पृथिवीं सर्वां सलिलेन परिप्लुताम्।
जलाशयान्स तान्दृष्ट्वा विप्रः प्रमुदितोऽभवत्॥ 13-33-14(82150)
अचिन्तयद्विस्मितश्चि विप्रः प्रमुदितोऽभवत्॥
अचिन्तयद्विस्तितश्च वर्षात्केनाभिरक्षितः।
ततोऽपश्यत्स महिषमवस्थितमदूरतः॥ 13-33-15(82151)
तिर्यग्योनावपि कथं दृश्यते धर्मवत्सलः॥ 13-33-16(82152)
अतो नु भद्रमहिषः शिलापट्टमवस्थितः।
पीवरश्चैव बल्यश्च बहुमांसो भवेदयम्॥ 13-33-17(82153)
तस्य बुद्धिरियं जाता धर्मसंसक्तजा मुनेः।
कृतघ्ना नरकं यान्ति ये च विश्वस्तघातिनः॥ 13-33-18(82154)
निष्कृतिं नैव पश्यामि कृतघ्नानां कथञ्चन।
क्रते प्राणिपरित्यागाद्धर्मज्ञानां वचो यथा॥ 13-33-19(82155)
अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम्।
कृतघ्नतां च सम्प्राप्य मरणान्ता च निष्कृतिः॥ 13-33-20(82156)
आकाङ्क्षायामुपेक्षायां चोपपातकमुत्तमम्।
तस्मात्प्राणान्परित्यक्ष्ये प्रायश्चित्तार्थमित्युत॥ 13-33-21(82157)
स मेरुशिखरं गत्वा निस्यङ्केनान्तरात्मना।
प्रायश्चित्तं कर्तुकामः शरीरं त्यक्तुमुद्यतः।
निगृहीतश्च धर्मात्मा हस्ते धर्मेण धर्मवित्॥ 13-33-22(82158)
धर्मि उवाच। 13-33-23x(6829)
वत्सनाभ महाप्राज्ञ बहुवर्षशतायुष।
परितुष्टोस्मि त्यागेन निस्सङ्गेन तथाऽऽत्मनः॥ 13-33-23(82159)
एवं धर्मभृतः सर्वे विमृशन्ति कृताकृतम्।
न कश्चिद्वत्सनाभस्य यस्य नोपहतं मनः॥ 13-33-24(82160)
यश्चानवद्यश्चरति शक्तो धर्मं च सर्वशः।
निवर्तस्व महाप्राज्ञ् पूतात्मा ह्यसि शाश्वतः'॥ ॥ 13-33-25(82161)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-33-17 बल्यः बलिकर्मार्हः। पीवरश्चैव वध्यश्वेति पाठान्तरम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|